Of Rishi’s seven…
तदेष श्लोको भवति ।अर्वाग्बिलश्चमस ऊर्ध्वबुध्नः, तस्मिन्यशो निहितं विश्वरूपम् ।तस्यासत ऋषयः सप्त तीरे, वागष्टमी ब्रह्मणा संविदान ॥इति ।‘अर्वाग्बिलश्चमस ऊर्ध्वबुध्नः’ इतीदं तच्छिरः, एष ह्यर्वाग्बिलश्चमस ऊर्ध्वबुध्नः; ‘तस्मिन्यशो निहितं विश्वरूपम्’ इति प्राण वै यशो विश्वरूपम्, प्राणानेतदाह; ‘तस्यासत ऋषयः सप्त तीरे’ इति प्राणा वा ऋषयः, प्राणानेतदाह; ‘वागष्टमी ब्रह्मणा संविदाना’ इति वागष्टमी ब्रह्मणा संवित्ते ॥ ३ ॥ tadeṣa śloko bhavati |arvāgbilaścamasa …